Friday, June 19, 2026

बुध कवच

अस्य श्रीबुधकवचस्तोत्रमंत्रस्य कश्यप ऋषिः |

अनुष्टुप् छंदः | बुधो देवता |
बुधपीडाशमनार्थं जपे विनियोगः॥

बुधस्तु पुस्तकधरः कुंकुमस्य समद्दुतिः |
पितांबरधरः पातु पितमाल्यानुलेपनः ॥१॥

कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा |
नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः ॥२॥

घ्राणं गंधप्रियः पातु जिह्वां विद्याप्रदो मम |
कंठं पातु विधोः पुत्रो भुजा पुस्तकभूषणः ॥३॥

वक्षः पातु वरांगश्च हृदयं रोहिणीसुतः |
नाभिं पातु सुराराध्यो मध्यं पातु खगेश्वरः ॥४॥

जानुनी रौहिणेयश्च पातु जंघेSखिलप्रदः |
पादौ मे बोधनः पातु पातु सौम्योSखिलं वपु ॥५॥

एतद्धि कवचं दिव्यं सर्वपापप्रणाशनम् |
सर्व रोगप्रशमनं सर्व दुःखनिवारणम् ॥६॥

आयुरारोग्यधनदं पुत्रपौत्रप्रवर्धनम् |
यः पठेत् श्रुणुयाद्वापि सर्वत्र विजयी भवेत् ॥७॥

॥ इति श्रीब्रह्मवैवर्तपुराणे बुधकवचं संपूर्णं ॥

No comments:

Post a Comment

बुध कवच

अस्य श्रीबुधक वचस्तोत्रमंत्रस्य कश्यप ऋषिः | अनुष्टुप् छंदः | बुधो देवता | बुधपीडाशमनार्थं जपे विनियोगः॥ बुधस्तु पुस्तकधरः कुंकुमस्य समद्दुत...