Thursday, October 23, 2025

विघ्ननाशकगणेशस्तोत्रम्

 । विघ्ननाशकगणेशस्तोत्रम् ।

  

         श्रीराधिका उवाच 

परं धाम परं ब्रह्म परेशं परमीश्वरम् ।
विघ्ननिघ्नकरं शान्तं पुष्टं कान्तमनन्तकम् ॥१॥


सुरासुरेन्द्रैः सिद्धेन्द्रैः स्तुतं स्तौमि परात्परम्। 
सुरपद्मदिनेशं च गणेशं मङ्गलायनम् ॥ २॥


इदं स्तोत्रं महापुण्यं विघ्नशोकहरं परम्। 
यः पठेत् प्रातरुत्थाय सर्वविघ्नात् प्रमुच्यते ॥ ३॥


॥ इति श्रीब्रह्मवैवर्तपुराणे श्रीकृष्णजन्मखण्डे विघ्ननाशक - गणेशस्तोत्रं सम्पूर्णम् ॥


Vighn Nashak Ganesh Strotra 


No comments:

Post a Comment

कार्तवीर्य द्वादशनामस्तोत्रम्

         कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् । तस्य स्मरणमात्रेण गतं नष्टं च लभ्यते ॥ १॥ कार्तवीर्यः खलद्वेषी कृतवीर्यसुतो बली । सहस्रब...