Sunday, January 25, 2026

कार्तवीर्य द्वादशनामस्तोत्रम्

        कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् ।

तस्य स्मरणमात्रेण गतं नष्टं च लभ्यते ॥ १॥

कार्तवीर्यः खलद्वेषी कृतवीर्यसुतो बली । सहस्रबाहुः शत्रुघ्नो रक्तवासा धनुर्धरः ॥ २॥ रक्तगन्धो रक्तमाल्यो राजा स्मर्तुरभीष्टदः । द्वादशैतानि नामानि कार्तवीर्यस्य यः पठेत् ॥ ३॥ सम्पदस्तत्र जायन्ते जनस्तत्र वशं गतः । आनयत्याशु दूरस्थं क्षेमलाभयुतं प्रियम् ॥ ४॥ कार्तवीर्य महाबाहो सर्वदिष्टविबर्हण । सर्वं रक्ष सदा तिष्ठ दुष्टान्नाशय पाहि माम् ॥ ५॥ सहस्रबाहुसशरं महितं सचापं रक्ताम्बरं रक्तकिरीटकुण्डलम् । चोरादि-दुष्टभय-नाशं इष्टदं तं ध्यायेत् महाबल-विजृम्भित-कार्तवीर्यम् ॥ ६॥ यस्य स्मरणमात्रेण सर्वदुःखक्षयो भवेत् । यन्नामानि महावीर्यश्चार्जुनः कृतवीर्यवान् ॥ ७॥ हैहयाधिपतेः स्तोत्रं सहस्रावृत्तिकारितम् । वाञ्चितार्थप्रदं नृणां स्वराज्यं सुकृतं यदि ॥ ८॥
॥ इति कार्तवीर्य द्वादशनाम स्तोत्रम् ॥

Saturday, January 17, 2026

Mritsanjivani Strotra

Mritsanjivani Strotra


एवमाराध्य गौरीशं देवं मृत्युञ्जयेश्वरम्।
मृतसञ्जीवनं नाम्ना कवचं प्रजपेत् सदा॥१



सारात्सारतरं पुण्यं गुह्यात्गुह्यतरं शुभम्।
महादेवस्य कवचं मृतसञ्जीवनामकम्



समाहितमना भूत्वा शृणुश्व कवचं शुभम्।
शृत्वैतद्दिव्य कवचं रहस्यं कुरु सर्वदा



वराभयकरो यज्वा सर्वदेवनिषेवित:।
मृत्युञ्जयो महादेव: प्राच्यां मां पातु सर्वदा



दधान: शक्तिमभयां त्रिमुखं षड्भुज: प्रभु:।
सदाशिवोऽग्निरूपी मामाग्नेय्यां पातु सर्वदा



अष्टादशभुजोपेतो दण्डाभयकरो विभु:।
यमरूपी महादेवो दक्षिणस्यां सदावतु



खड्गाभयकरो धीरो रक्षोगणनिषेवित:।
रक्षोरूपी महेशो मां नैऋत्यां सर्वदावतु



पाशाभयभुज: सर्वरत्नाकरनिषेवित:।
वरूणात्मा महादेव: पश्चिमे मां सदावतु



गदाभयकर: प्राणनायक: सर्वदागति:।
वायव्यां वारुतात्मा मां शङ्कर: पातु सर्वदा



शङ्खाभयकरस्थो मां नायक: परमेश्वर:।
सर्वात्मान्तरदिग्भागे पातु मां शङ्कर: प्रभु:१०



शूलाभयकर: सर्वविद्यानामधिनायक:।
ईशानात्मा तथैशान्यां पातु मां परमेश्वर:११



ऊर्ध्वभागे ब्रह्मरूपी विश्वात्माऽध: सदावतु।
शिरो मे शङ्कर: पातु ललाटं चन्द्रशेखर:१२



भूमध्यं सर्वलोकेशस्त्रिणेत्रो लोचनेऽवतु।
भ्रूयुग्मं गिरिश: पातु कर्णौ पातु महेश्वर:१३



नासिकां मे महादेव ओष्ठौ पातु वृषध्वज:।
जिव्हां मे दक्षिणामूर्तिर्दन्तान्मे गिरिशोऽवतु१४



मृत्युञ्जयो मुखं पातु कण्ठं मे नागभूषण:।
पिनाकि मत्करौ पातु त्रिशूलि हृदयं मम१५



पञ्चवक्त्र: स्तनौ पातु उदरं जगदीश्वर:।
नाभिं पातु विरूपाक्ष: पार्श्वो मे पार्वतिपति:१६



कटद्वयं गिरिशौ मे पृष्ठं मे प्रमथाधिप:।
गुह्यं महेश्वर: पातु ममोरु पातु भैरव:१७



जानुनी मे जगद्धर्ता जङ्घे मे जगदंबिका।
पादौ मे सततं पातु लोकवन्द्य: सदाशिव:१८



गिरिश: पातु मे भार्या भव: पातु सुतान्मम।
मृत्युञ्जयो ममायुष्यं चित्तं मे गणनायक:१९



सर्वाङ्गं मे सदा पातु कालकाल: सदाशिव:।
एतत्ते कवचं पुण्यं देवतानांच दुर्लभम्२०



मृतसञ्जीवनं नाम्ना महादेवेन कीर्तितम्।
सहस्त्रावर्तनं चास्य पुरश्चरणमीरितम्२१



य: पठेच्छृणुयानित्यं श्रावयेत्सु समाहित:।
सकालमृत्यु निर्जित्य सदायुष्यं समश्नुते२२



हस्तेन वा यदा स्पृष्ट्वा मृतं सञ्जीवयत्यसौ।
आधयोव्याधयस्तस्य न भवन्ति कदाचन२३



कालमृत्युमपि प्राप्तमसौ जयति सर्वदा।
अणिमादिगुणैश्वर्यं लभते मानवोत्तम:२४



युद्धारम्भे पठित्वेदमष्टाविंशतिवारकम।
युद्धमध्ये स्थित: शत्रु: सद्य: सर्वैर्न दृश्यते२५



न ब्रह्मादिनी चास्त्राणि क्षयं कुर्वन्ति तस्य वै।
विजयं लभते देवयुद्धमध्येऽपि सर्वदा२६



प्रातरूत्थाय सततं य: पठेत्कवचं शुभम्।
अक्षय्यं लभते सौख्यमिहलोके परत्र च२७



सर्वव्याधिविनिर्मुक्त: सर्वरोगविवर्जित:।
अजरामरणो भूत्वा सदा षोडशवार्षिक:२८



विचरत्यखिलान् लोकान् प्राप्य भोगांश्च दुर्लभान्।
तस्मादिदं महागोप्यं कवचं समुदाहृतम्२९



मृतसञ्जीवनं नाम्ना दैवतैरपि दुर्लभम्।
इति वसिष्ठकृतं मृतसञ्जीवन स्तोत्रम्३०


Shani Kavach (शनि कवच)

 Shani Kavach (शनि कवच)


नीलाम्बरो नीलवपु: किरीटी गृध्रस्थितत्रासकरो धनुष्मान् ।
चतुर्भुज: सूर्यसुत: प्रसन्न: सदा मम स्याद्वरद: प्रशान्त: ।।1।।

श्रृणुध्वमृषय: सर्वे शनिपीडाहरं महत् ।
कवचं शनिराजस्य सौरेरिदमनुत्तमम् ।।2।।

कवचं देवतावासं वज्रपंजरसंज्ञकम् ।
शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम् ।।3।।

ऊँ श्रीशनैश्चर: पातु भालं मे सूर्यनंदन: ।
नेत्रे छायात्मज: पातु कर्णो यमानुज: ।।4।।

नासां वैवस्वत: पातु मुखं मे भास्कर: सदा ।
स्निग्धकण्ठश्च मे कण्ठ भुजौ पातु महाभुज: ।।5।।

स्कन्धौ पातु शनिश्चैव करौ पातु शुभप्रद: ।
वक्ष: पातु यमभ्राता कुक्षिं पात्वसितस्थता ।।6।।

नाभिं गृहपति: पातु मन्द: पातु कटिं तथा ।
ऊरू ममाSन्तक: पातु यमो जानुयुगं तथा ।।7।।

पदौ मन्दगति: पातु सर्वांग पातु पिप्पल: ।
अंगोपांगानि सर्वाणि रक्षेन् मे सूर्यनन्दन: ।।8।।

इत्येतत् कवचं दिव्यं पठेत् सूर्यसुतस्य य: ।
न तस्य जायते पीडा प्रीतो भवन्ति सूर्यज: ।।9।।

व्ययजन्मद्वितीयस्थो मृत्युस्थानगतोSपि वा ।
कलत्रस्थो गतोवाSपि सुप्रीतस्तु सदा शनि: ।।10।।

अष्टमस्थे सूर्यसुते व्यये जन्मद्वितीयगे ।
कवचं पठते नित्यं न पीडा जायते क्वचित् ।।11।।

इत्येतत् कवचं दिव्यं सौरेर्यन्निर्मितं पुरा ।
जन्मलग्नस्थितान्दोषान् सर्वान्नाशयते प्रभु: ।।12।।

॥ इति शनि कवच संपूर्णं ॥

कार्तवीर्य द्वादशनामस्तोत्रम्

         कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् । तस्य स्मरणमात्रेण गतं नष्टं च लभ्यते ॥ १॥ कार्तवीर्यः खलद्वेषी कृतवीर्यसुतो बली । सहस्रब...