अस्य श्रीबुधकवचस्तोत्रमंत्रस्य कश्यप ऋषिः |
अनुष्टुप् छंदः | बुधो देवता |
बुधपीडाशमनार्थं जपे विनियोगः॥
बुधस्तु पुस्तकधरः कुंकुमस्य समद्दुतिः |
पितांबरधरः पातु पितमाल्यानुलेपनः ॥१॥
कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा |
नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः ॥२॥
घ्राणं गंधप्रियः पातु जिह्वां विद्याप्रदो मम |
कंठं पातु विधोः पुत्रो भुजा पुस्तकभूषणः ॥३॥
वक्षः पातु वरांगश्च हृदयं रोहिणीसुतः |
नाभिं पातु सुराराध्यो मध्यं पातु खगेश्वरः ॥४॥
जानुनी रौहिणेयश्च पातु जंघेSखिलप्रदः |
पादौ मे बोधनः पातु पातु सौम्योSखिलं वपु ॥५॥
एतद्धि कवचं दिव्यं सर्वपापप्रणाशनम् |
सर्व रोगप्रशमनं सर्व दुःखनिवारणम् ॥६॥
आयुरारोग्यधनदं पुत्रपौत्रप्रवर्धनम् |
यः पठेत् श्रुणुयाद्वापि सर्वत्र विजयी भवेत् ॥७॥
॥ इति श्रीब्रह्मवैवर्तपुराणे बुधकवचं संपूर्णं ॥